कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑। को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च॥
kasya nūnaṁ katamasyāmṛtānām manāmahe cāru devasya nāma | ko no mahyā aditaye punar dāt pitaraṁ ca dṛśeyam mātaraṁ ca ||
कस्य॑। नू॒नम्। क॒त॒मस्य॑। अ॒मृता॑नाम्। मना॑महे। चारु॑। दे॒वस्य॑। नाम॑। कः। नः॑। म॒ह्यै। अदि॑तये। पुनः॑। दा॒त्। पि॒तर॑म्। च॒। दृ॒शेय॑म्। मा॒तर॑म्। च॒॥
स्वामी दयानन्द सरस्वती
अब चौबीसवें सूक्त का प्रारम्भ है। उसके पहिले मन्त्र में प्रजापति का प्रकाश किया है-
स्वामी दयानन्द सरस्वती
तत्रादिमेन प्रजापतिरुपदिश्यते।
वयं कस्य कतमस्य बहूनाममृतानामनादीनां प्राप्तमोक्षाणां जीवानां जगत्कारणानां नित्यानां मध्ये व्यापकस्यामृतस्यानादेरेकस्य पदार्थस्य देवस्य चारु नाम नूनं मनामहे कश्च देवो नः प्राप्तमोक्षानप्यस्मान् मह्या अदितये पुनर्दातु ददाति येनाहं पितरं मातरं च दृशेयम्॥१॥
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)तेविसाव्या सूक्तात सांगितलेले वायू इत्यादी अर्थानुकूल प्रजापती इत्यादी अर्थ सांगण्याने या चोविसाव्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥